शुक्लां ब्रह्मविचारसार परमां आद्यं जगद्वयापिनिम् |
वीणा पुस्तक धारिणीं अभयदां जाड्यान्धकारापहाम् ||
'न क्षरति 'इति अक्षरम् यस्य क्षयः न भवति तत् अक्षरम् इति | विद्या इत्यपी वकतुं शक्यते |
भारतीय जीवन परम्परायां विद्याभ्यासार्थं विशेष महात्वं विद्यते तथा हिन्दू जीवन पद्धत्यां जननादारभ्य संस्क्राराः देयाः तत्रैकः विद्याभ्यासः 'अक्षराभ्यासः ' इति | यदा शिशुः प्रौढावस्यां प्राप्नोति तदा अयं संस्कारः देयः अक्षराभ्यास पूर्वकं | यथा उच्यते धर्म सिन्धु ग्रन्थे -
प्रप्तेतु पञ्चमे वर्षे तवत्प्रस्तुते जनार्दने |
विद्यारंभस्तु कर्तव्यः यथोक्त तिथिवासरे ||
एवं शुभ मुहूर्ते शिशोः अक्षराभ्यासः कारणीयः .तथैव अस्माकं शालायां अपि प्प्लव नाम संवत्सरे ज्येष्ठ मासस्य शुक्ल पक्षे षष्ठ्यां शुभतिथौ (11- October -2021) नूतन 8 छात्राणां कृते स्व स्व पालकानं सम्मुखे तथा पुरोहितः विद्वान् श्री श्रीरेः मार्गदर्शनेन अयं कार्यक्रमः सुसंपन्नः ||
Publisher: Vineeth | PVV School